वांछित मन्त्र चुनें

व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः । प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥

अंग्रेज़ी लिप्यंतरण

vayaṁ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ | pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||

पद पाठ

व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः । प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥ ८.३३.१

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:1 | अष्टक:6» अध्याय:3» वर्ग:7» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:1